दुर्गा सप्तश्लोकी संपूर्ण
॥ श्री दुर्गा सप्तश्लोकी ॥
शिव उवाच ॥
देवि त्वं भक्तसुलभे सर्वकार्य विधायिनी ।
कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥
देव्युवाच ॥
शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।
मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥
॥ सप्तश्लोकी दुर्गा ॥
ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः ।
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥
दारिद्र्यदुःखभयहारिणि का त्वदन्या ।
सर्वोपकारकरणाय सदार्द्रचित्ता ॥२॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥३॥
शरणागतदीनार्त परित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥४॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥५॥
रोगानशेषानपहंसि तुष्टा ।
रुष्टा तु कामान्सकलानभीष्टान् ॥
त्वामाश्रितानां न विपन्नराणां ।
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥
सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥७॥
॥ फलश्रुति ॥
एतां सप्तश्लोकीं यः पठेत् श्रद्धयान्वितः ।
तस्य दुःखं क्षयं याति, सुखसमृद्धिर्विवर्धते ॥
भक्त्या पाठं करोत्येव सर्वरोगविनाशिनी ।
शत्रुनाशकरी चैव सर्वमङ्गलकारिणी ॥
नवरात्रौ विशेषेण पाठनीयमिदं शुभम् ।
देवीप्रसादसिद्ध्यर्थं सर्वाभीष्टफलप्रदम् ॥
॥ इति श्री दुर्गा सप्तश्लोकी सम्पूर्णम् ॥
Durga Saptashloki Complete
Complete Durga Saptashloki dedicated to Goddess Durga for protection, prosperity, fear removal and divine blessings.