📲 ऐप इंस्टॉल करें
होम स्क्रीन पर जोड़ें — तेज़ और आसान
ज्योतिष कुण्डली — वैदिक ज्योतिष • कुंडली • वास्तु • AI मार्गदर्शनचालित

🕉️ आध्यात्मिक सामग्री

कहानी, आरती, मंत्र, पूजा विधि, चालीसा, भजन

← वापस
🌺 स्तुति Krishna
👁 1772552 ❤️ 162114

मधुराष्टकम् संपूर्ण

Madhurashtakam Complete
भाषा:
मधुराष्टकम् संपूर्ण
॥ श्री मधुराष्टकम् ॥ अधरं मधुरं वदनं मधुरं । नयनं मधुरं हसितं मधुरम् ॥ हृदयं मधुरं गमनं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥१॥ वचनं मधुरं चरितं मधुरं । वसनं मधुरं वलितं मधुरम् ॥ चलितं मधुरं भ्रमितं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥२॥ वेणुर्मधुरो रेणुर्मधुरः । पाणिर्मधुरः पादौ मधुरौ ॥ नृत्यं मधुरं सख्यं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥३॥ गीतं मधुरं पीतं मधुरं । भुक्तं मधुरं सुप्तं मधुरम् ॥ रूपं मधुरं तिलकं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥४॥ करणं मधुरं तरणं मधुरं । हरणं मधुरं स्मरणं मधुरम् ॥ वमितं मधुरं शमितं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥५॥ गुञ्जा मधुरा माला मधुरा । यमुना मधुरा वीची मधुरा ॥ सलिलं मधुरं कमलं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥६॥ गोपी मधुरा लीला मधुरा । युक्तं मधुरं मुक्तं मधुरम् ॥ दृष्टं मधुरं शिष्टं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥७॥ गोपा मधुरा गावो मधुरा । यष्टिर्मधुरा सृष्टिर्मधुरा ॥ दलितं मधुरं फलितं मधुरं । मधुराधिपतेरखिलं मधुरम् ॥८॥ ॥ फलश्रुति ॥ इदं मधुराष्टकं पुण्यं भक्त्या यः पठते नरः । कृष्णभक्तिं लभेत् शीघ्रं प्रेमानन्दं च विन्दति ॥ राधाकृष्ण कृपाकटाक्षं लभते नात्र संशयः । भवबन्धविनिर्मुक्तो हरिधामं स गच्छति ॥ ॥ इति श्री मधुराष्टकम् सम्पूर्णम् ॥
Madhurashtakam Complete
Complete Madhurashtakam dedicated to Lord Krishna describing the sweetness of every aspect of Shri Krishna.