कनकधारा स्तोत्र संपूर्ण
॥ श्री कनकधारा स्तोत्रम् ॥
अंगं हरेः पुलकभूषणमाश्रयन्ती ।
भृंगांगनेव मुकुलाभरणं तमालम् ॥
अंगीकृताखिलविभूतिरपांगलीला ।
मांगल्यदास्तु मम मंगलदेवतायाः ॥१॥
मुग्धा मुहुर्विदधती वदने मुरारेः ।
प्रेमत्रपाप्रणिहितानि गतागतानि ॥
मालादृशोर्मधुकर इव महोत्पले या ।
सा मे श्रियं दिशतु सागरसम्भवायाः ॥२॥
विश्वामरेन्द्रपदविभ्रमदानदक्षम् ।
आनन्दहेतुरधिकं मुरविद्विषोऽपि ॥
ईषन्निषीदतु मयि क्षणमीक्षणार्धम् ।
इन्दीवरोदर सहोदरमिन्दिरायाः ॥३॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दम् ।
आनन्दकन्दमनिमेषमनंगतन्त्रम् ॥
आकेकरस्थितकनीनिकपक्ष्मनेत्रम् ।
भूत्यै भवेन्मम भुजंगशयांगनायाः ॥४॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या ।
हारावलीव हरिनीलमयी विभाति ॥
कामप्रदा भगवतोऽपि कटाक्षमाला ।
कल्याणमावहतु मे कमलालयायाः ॥५॥
कालाम्बुदालिललितोरसि कैटभारेः ।
धाराधरे स्फुरति या तडिदंगनेव ॥
मातः समस्तजगतां महनीयमूर्तिः ।
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥६॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् ।
मांगल्यभाजि मधुमाथिनि मन्मथेन ॥
मय्यापतेत्तदिह मन्थरमीक्षणार्धम् ।
मन्दालसं च मकरालयकन्यकायाः ॥७॥
दद्याद्दयानुपवनो द्रविणाम्बुधाराम् ।
अस्मिन्नकिञ्चन विहंगशिशौ विषण्णे ॥
दुष्कर्मघर्ममपनिय चिराय दूरम् ।
नारायणप्रणयिनी नयनाम्बुवाहः ॥८॥
इष्टा विशिष्टमतयोऽपि यया दयार्द्रा ।
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ॥
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टाम् ।
पुष्टिं कृषीष्ट मम पुष्करविस्तरायाः ॥९॥
गीर्देवतेति गरुडध्वजसुन्दरीति ।
शाकम्भरीति शशिशेखरवल्लभेति ॥
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै ।
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥१०॥
॥ फलश्रुति ॥
सुवर्णधारास्तोत्रं यच्छंकराचार्यनिर्मितम् ।
त्रिसन्ध्यं यः पठेन्नित्यं कुबेरसमतां व्रजेत् ॥
धनधान्यसमृद्धिश्च लक्ष्मीप्राप्तिर्न संशयः ।
दारिद्र्यदुःखनाशश्च भवेदस्य प्रसादतः ॥
भक्त्या पाठं करोत्येव लक्ष्मीः स्थिरा गृहे भवेत् ।
सौभाग्यं सर्वसम्पत्तिः प्रसन्ना कमलालयाः ॥
॥ इति श्री कनकधारा स्तोत्रं सम्पूर्णम् ॥
Kanakadhara Stotram Complete
Complete Kanakadhara Stotram composed by Adi Shankaracharya in praise of Goddess Lakshmi for wealth, prosperity and blessings.