📲 Install App
Add to home screen — faster & offline
VaidikAstro — Vedic Wisdom • Astrology • Vastu • AI Guidance

🕉️ Spiritual Content

Kahani, Aarti, Mantra, Puja, Chalisa, Bhajan

← Back
🌺 Stuti Shani
👁 1882551 ❤️ 173114

Shani Stotra Complete

Language:
शनि स्तोत्र संपूर्ण
॥ श्री शनि स्तोत्रम् ॥ नीलांजनसमाभासं रविपुत्रं यमाग्रजम् । छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥१॥ नमः कृष्णाय नीलाय शितिकण्ठनिभाय च । नमः कालाग्निरूपाय कृतान्ताय च वै नमः ॥२॥ नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च । नमो विशालनेत्राय शुष्कोदर भयङ्कर ॥३॥ नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः । नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते ॥४॥ नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः । नमो घोराय रौद्राय भीषणाय करालिने ॥५॥ नमस्ते सर्वभक्षाय वलिमुख नमोऽस्तु ते । सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदाय च ॥६॥ अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते । नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः ॥७॥ तपसा दग्धदेहाय नित्यं योगरताय च । नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ॥८॥ ज्ञानचक्षुर्नमस्तेऽस्तु कश्यपात्मज सूनवे । तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥९॥ देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः । त्वया विलोकिताः सर्वे दैन्यमाशु व्रजन्ति ते ॥१०॥ ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः । राज्यभ्रष्टा भवन्त्येते तव दृष्टिविलोकिताः ॥११॥ देशाश्च नगरग्रामाः द्वीपाश्चैव द्रुमास्तथा । त्वया विलोकिताः सर्वे विनाशं यान्ति मूलतः ॥१२॥ प्रसादं कुरु मे सौरे प्रणतार्तिहरे प्रभो । वरं देहि च मे नित्यं धनधान्यसमृद्धिदम् ॥१३॥ ॥ फलश्रुति ॥ यः पठेत्प्रातरुत्थाय शनिस्तोत्रं समाहितः । तस्य पीडा क्षयं याति शनिदोषो विनश्यति ॥ शनि साढ़ेसाती पीड़ा च ढैय्या दोष विनश्यति । धनधान्यसमृद्धिश्च आयुरारोग्यवर्धनम् ॥ शनिवारे विशेषेण भक्त्या यः पाठमाचरेत् । तस्य जीवनमङ्गल्यं भवेत् शनिकृपाकटाक्षतः ॥ ॥ इति श्री शनि स्तोत्रं सम्पूर्णम् ॥
Shani Stotra Complete
Complete Shani Stotra dedicated to Lord Shani Dev for relief from Shani dosha, protection, discipline and karmic balance.