📲 Install App
Add to home screen — faster & offline
VaidikAstro — Vedic Wisdom • Astrology • Vastu • AI Guidance

🕉️ Spiritual Content

Kahani, Aarti, Mantra, Puja, Chalisa, Bhajan

← Back
🌺 Stuti Durga
👁 1447551 ❤️ 131114

Durga Saptashloki Complete

Language:
दुर्गा सप्तश्लोकी संपूर्ण
॥ श्री दुर्गा सप्तश्लोकी ॥ शिव उवाच ॥ देवि त्वं भक्तसुलभे सर्वकार्य विधायिनी । कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच ॥ शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् । मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ ॥ सप्तश्लोकी दुर्गा ॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः । स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥ दारिद्र्यदुःखभयहारिणि का त्वदन्या । सर्वोपकारकरणाय सदार्द्रचित्ता ॥२॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥३॥ शरणागतदीनार्त परित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥४॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥५॥ रोगानशेषानपहंसि तुष्टा । रुष्टा तु कामान्सकलानभीष्टान् ॥ त्वामाश्रितानां न विपन्नराणां । त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥६॥ सर्वाबाधा प्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥७॥ ॥ फलश्रुति ॥ एतां सप्तश्लोकीं यः पठेत् श्रद्धयान्वितः । तस्य दुःखं क्षयं याति, सुखसमृद्धिर्विवर्धते ॥ भक्त्या पाठं करोत्येव सर्वरोगविनाशिनी । शत्रुनाशकरी चैव सर्वमङ्गलकारिणी ॥ नवरात्रौ विशेषेण पाठनीयमिदं शुभम् । देवीप्रसादसिद्ध्यर्थं सर्वाभीष्टफलप्रदम् ॥ ॥ इति श्री दुर्गा सप्तश्लोकी सम्पूर्णम् ॥
Durga Saptashloki Complete
Complete Durga Saptashloki dedicated to Goddess Durga for protection, prosperity, fear removal and divine blessings.